|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.173. अध्यायः 173
Mahabharata - Adi Parva - Chapter Topics
ब्राह्मणं प्रति तत्कन्यावाक्यम्॥ 1 ॥ बालस्य पुत्रस्य वचनेन पित्रोः किंचिद्धर्षसमये कुन्त्यास्तत्समीपे गमनम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-173-0x(1008)(7876)
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु।
ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत॥ 1-173-1(7877)
किमेवं भृशदुःखार्तौ रोरूयेतामनाथवत्।
ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम्॥ 1-173-2(7878)
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः।
त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया॥ 1-173-3(7879)
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति।
अस्मिन्नुपस्थिते काले तरध्वं प्लववन्मया॥ 1-173-4(7880)
इह वा तारयेद्दुर्गादुत वा प्रेत्य भारत।
सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः॥ 1-173-5(7881)
आकाङ्क्षन्ते च दौहित्रान्मयि नित्यं पितामहाः।
तत्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः॥ 1-173-6(7882)
भ्राता च मम बालोऽयं गते लोकममुं त्वयि।
अचिरेणैव कालेन विनश्येत न संशयः॥ 1-173-7(7883)
तातेपि हि गते स्वर्गं विनष्टे च ममानुजे।
पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत्॥ 1-173-8(7884)
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्।
दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिताम्॥ 1-173-9(7885)
त्वयि त्वरोगे निर्मुक्तो माता भ्राता च मे शिशुः।
सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्॥ 1-173-10(7886)
आत्मा पुत्रः सखी भार्या कृच्छ्रं तु दुहिता किल।
स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजया॥ 1-173-11(7887)
अनाथा कृपणा बाला यत्र क्वचन गामिनी।
भविष्यामि त्वया तात विहीना कृपणा सदा॥ 1-173-12(7888)
अथवाहं करिष्यामि कुलस्यास्य विमोचनम्।
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्॥ 1-173-13(7889)
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम।
पीडिताऽहं भविष्यामि तदवेक्षस्व मामपि॥ 1-173-14(7890)
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम।
आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज॥ 1-173-15(7891)
अवश्यकरणीये च मा त्वां कालोत्यगादयम्।
किं त्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि॥ 1-173-16(7892)
याचमानाः परादन्नं परिधावेमहि श्ववत्।
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे।
अमृतेव सती लोके भविष्यामि सुखान्विता॥ 1-173-17(7893)
इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम्।
त्वया दत्तेन तोयेन भविष्यति हिताय वै॥ 1-173-18(7894)
`इत्येतदुभयं तात निशाम्य तव यद्धितम्।
तद्व्यवस्य तथाम्बाया हितं स्वस्य सुतस्य च॥ 1-173-19(7895)
मातापित्रोश्च पुत्रास्तु भवितारो गुणान्विताः।
न तु पुत्रस्य पितरो पुनर्जातु भविष्यतः॥' 1-173-20(7896)
वैशम्पायन उवाच। 1-173-21x(1009)
एवं बहुविधं तस्या निशम्य परिदेवितम्।
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः॥ 1-173-21(7897)
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तदा।
उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत्॥ 1-173-22(7898)
मा पिता रुद मा मातर्मा स्वसस्त्विति चाब्रवीत्।
प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति॥ 1-173-23(7899)
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत्।
अनेनाहं हनिष्यामि राक्षसं पुरुषादकम्॥ 1-173-24(7900)
वैशम्पायन उवाच। 1-173-25x(1010)
तथापि तेषां दुःखेन परीतानां निशम्य तत्।
बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्॥ 1-173-25(7901)
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान्।
गतासूनमृतेनेव जीवयन्तीदमब्रवीत्॥ ॥ 1-173-26(7902)
इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः॥ 173 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-173-15 प्रसवार्थं वंशार्थम्॥ 1-173-17 अमृतेव जीवन्तीव। इह लोके कीर्तेः सत्त्वात्॥ 1-173-18 इतः प्रदाने अस्मिन् राक्षसाहाराय कन्यादाने दुर्दानत्वात् पितुर्दुर्मरणाच्च कन्याया देवाश्च पितरश्च हिताय नेति श्रुतं यद्यपि तथापि त्वया दत्तेनः तोयेन तव मम च हिताय ते भविष्यन्तीत्यर्थः॥ 1-173-22 कलं मधुरा॥ त्रिसप्तत्यधिकशततमोऽध्यायः॥ 173 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|